<<6-4-47 —- 6-4-49>>

6-4-48 अतो लोपः

प्रथमावृत्तिः

TBD.

काशिका

अकारान्तस्य आर्धधातुके लोपो भवति। चिकीर्षिता। चिकीर्षितुम्। चिकीर्षितव्यम्।
धिनुतः। कृणुतः। अतः इति किम्? चेता। स्तोता। तपरकरणं किम्? याता। वाता।
आर्धाधातुके इति किम्? वृक्षत्वम्। वृक्षता। वृद्धिदीर्घाभ्याम् अतो लोपः
पूर्वविप्रतिषेधेन। चिकीर्षकः। जिहीर्षकः। चिकीर्ष्यते। जिहीर्ष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

472 आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके..

बालमनोरमा

150 अतो लोपः। `अनुदात्तोपदेशवनती'त्यत उपदेशग्रहणमनुवर्तते। आद्र्धधातुक
इत्यधिकृतम्। तदिह आवर्तते। एकमुपदेशे अन्वेति। द्वितीयं तु लोपे परनिमित्तम्.
तदाह–आद्र्धधातुकोपदेश इतत्यादिना। आद्र्धधातुकोपदेश इति किम् ?। अय पय गतौ,
आभ्यां क्विपि, `लोपो व्यो'रिति लोपे, `ह्यस्वस्य पिती'ति तुकि, अपृक्तलोपे अत्
पत् इतीष्ते। अत्र यलोपे सति अतो लोपो न भवति, आद्र्धधातुकोपदेशकाले
धातोर्यकारान्तत्वात्। `आद्र्धधातुकोपदेश' इत्यत्र आद्र्धधातुकग्रहणाऽभावे
`चिकीर्षित'मित्यत्र अल्लोपो न स्यात्, सन उपदेशकाले नकारान्तत्वात्।
आद्र्धधातुकग्रहणे तु न दोषः, अनुबन्धविनिर्मुक्तात्सन्प्रत्ययादेव क्तप्रत्ययस्य
आद्र्धधातुकस्योत्पत्तेः। आद्र्धधातुके पर इति किम् ?। कथयति। चुरादावदन्तोऽयम्।
अत्र उपधावृद्धिर्न भवति, `अचः परस्मि'न्नित्यल्लोपस्य स्थानिवत्त्वात्।
आद्र्धधातुके पर इत्यनुक्तौ तु अल्लोपस्य परनिमित्तकत्वाऽभावात्स्थानिवत्त्वं न
स्यात्। तथा च प्रकृते गोपाय– आमिति स्थिते अतो लोपे गोपायामिति सिध्यति। यद्यपि
सवर्णदीर्घेणाप्येतत्सिद्धं, तथापि न्याय्यत्वादतो लोप उपन्यस्तः।
आयप्रत्ययाऽभावपक्षे आह–जुगोपेति। पित्त्वेन कित्त्वाऽभावाल्लघूपधगुणः।
जुगुपतुरिति। कित्त्वान्न गुणः। ऊदित्त्वाद्वेडिति। `थलादा'विति शेषः। जुगुपिव–
जुगुप्व। जुगुप्म। क्रादिनियमस्तु नञ्प्राप्तस्यैवाऽभावस्य, नतु
विभाषादिलभ्यस्येति षिधू शास्त्र इत्यत्रोक्तम्। गोपायितेति। लुटि आयप्रत्ययपक्षे
नित्यमिट्। आयप्रत्ययाऽभावपक्षे इड्विकल्पः। ऊदित्त्वस्य केवले चरितार्थत्वात्।
तदाह–गोपिता गोप्तेति। गोपायिष्यति गोपिष्यति गोप्स्यति। गोपायतु। अगोपायत्।
गोपायेत्। आशीर्लिङ आयप्रत्ययपक्षे आह–अगोपायीदिति। आयप्रत्ययाऽभावपक्षे इटि
रूपमाह— अगोपीदिति। `इट ईटी'ति सिज्लोपः। `नेटी'ति हलन्तलक्षवृद्धेर्निषेधः।
इडभावे तु इटः परत्वाऽभावान्न सिल्जोल इत्याह– अगौप्सीदिति। `वदव्रजे'ति वृद्धिः।
अगोपायिष्यत् अगोपिष्यत् अगोप्स्यत्। धूप संताप इति। `गूपूधूपे'त्यायः।
आद्र्धधातुके तद्विकल्पः। षप समवाय इति। षोपदेशोऽयम्। चुप मन्दायामिति।
चवर्गप्रथमादिरयम्। चवर्गद्वितीयादिस्त्वनिट्कः। तुप तुम्पेति। अष्टावप्युदुपधाः,
तृतीयचतुर्थौ सप्तमाष्टमौ च रेफवन्त इति मूले स्पष्टीभविष्यति।
`तुतुम्पतु'रित्यत्र नलोपमाशङ्क्याह– संयोगादिति। आशीर्लिङि विशेषमाह-
- किदाशिषीति। प्रात्तुम्पताविति। श्तिपा निर्देशोऽयम्। प्रात्–प्रेत्युपसर्गात्-
-तुम्पधातौ परे सुट् स्याद्गवि कर्तरि सतीत्यर्थः। तुपधातोः सुट् आद्यवयवः।
सुड्विधावस्मिन् तुम्पताविति श्तिपा निर्देशस्य प्रयोजनमाह– यङ्लुकि नेति।
`शपाऽनुबन्धेने'त्युक्तेरिति भावः। षृभु षृम्भु इति। ऋदुपधौ षोपदेशौ। सृभ्यादिति।
आशीर्लिङि अनिदित्त्वान्नलोपः। षिभु षिम्भु इत्येक इति। आद्य इदुपधो, द्वितीयो
मोपधः। शुभ शुम्भेति। द्वितीयस्य आशीर्लिङि अनिदित्त्वान्नलोपः। इति
`गुपू'इत्यादयः पवर्गीयान्ताः परस्मैपदिनो गताः। कम्यन्ता इति। `कमु कान्तौ'
इत्येतत्पर्यन्ता इत्यर्थः। घुण घूर्णेति। द्वितीयस्य दीर्घपाटः स्पष्टार्थः,
`उपधायां चे'त्येव दीर्घसिद्धेः। केचित्तु घुर्णेति ह्यस्वमेव पठन्ति।
स्तुतावित्येवेति। न तु व्यवहार इत्येवकारार्थः। पृथङ्निर्देशादिति। अन्यथा `पण पन
व्यवहारे स्तुतौ चे'त्येव निर्दिशेदिति भावः। यद्यपि पृथङ्निर्देशो
यथासङ्ख्यनिवृत्त्यर्थ इत्यपि वक्तुं शक्यं, तथापि संप्रदायानुरोधादेवमुक्तम्।
पनिसाहचर्यादिति। पनधातुः स्तुतावेव वर्तते, तत्साहचर्याद्गुपूधूपविच्छेत्यत्र
पणधातुरपिस्तुत्यर्थक एव गृह्रते, न तु व्यवहारार्थकः। अतः स्तुतार्वव
पणधातोरायप्रत्ययो न तु व्यवहारे इत्यर्थः। क्रेतव्यद्रव्यस्य मूल्यनिर्धारणाय
प्रश्नप्रतिवचनात्मको व्यवहारः। ननु स्तुतौ पणायतीति रूपं वक्ष्यमाणमनुपपन्नं,
पणधातोरनुदात्तेत्त्वेनात्मनेपदापत्तेः। न च आयप्रत्ययान्तस्यानुदात्तेत्वं नेति
शङ्क्यं, पणधातौ श्रुतस्यानुदात्तेत्त्वस्य `आनर्थक्यात्तदङ्ग' न्यायेन
आयप्रत्ययान्तेऽन्वयोपपत्तेरित्यत आह—स्तुताविति। अनुबन्धस्य अनुदात्तात्मकस्य
इतः, – याअद्र्धधातुकविषये कदाचिदायप्रत्ययविनिर्मुक्ते
चरितार्थत्वादायप्रत्ययान्तादात्मनेपदं नेत्यर्थः। एवं च तुल्यन्यायत्वादेकाच
उपदेश इति निषेधोऽपि नेति सूचितम्। क्षमष् सहन इति। `षद्भदादिभ्योऽ'ङित्यर्थं
षित्त्वम्। ऊदित्त्वादिड्विकल्पं मत्वाह– चक्षमिषे चक्षंस इति। इडभावपक्षे
`अनुनासिकस्य क्विझलो'रिति दीर्घस्तु न भवति, क्विसाहचर्येण तिङ्?भिन्नस्यैव
झलादेस्तत्र ग्रहणात्। वहिमह्रोरिडभावपक्षे विशेषमाह–म्वोश्च। `मो नो
धातो'रित्यनुवर्तते। तदाह–मान्तस्येति। णत्वमिति। षात्परत्वादट्कुप्वाङिति
नकारस्य णत्वमित्यर्थः। कमु कान्ताविति। `उदितो वे'ति
क्त्वायामिड्विकल्पार्थमुदित्त्वम्। कान्तिशब्दस्य प्रभापरत्वभ्रमं व#आरयति-
- कान्तिरच्छेति। `स्वर्गकाम'इत्यादौ कमेरिच्छायां प्रयोगबाहुल्यदर्शनादिति भावः।
`कामोऽभिलाषस्तर्षश्चे' त्यमरः।

तत्त्वबोधिनी

123 `अनुदात्तोपदेशे'ति सूत्रादुपदेश इत्यनुवत्र्ते। तदाह-
- आद्र्धधातुकोपदेशेत्यादि। उपदेशे इति किम् ?। अय पय गतौ। आभ्यां क्विपि
`वेरपृक्तलोपाद्वलि लोपः पूर्वविप्रतिषेधेने'ति वार्तिकात् `लोपो व्यो'रिति यलोपो
`अतो लोपः' इति लोपो मा भूत्। अत्। पत्। इह `ह्यस्वस्य पिती'ति तुक्। आद्र्धधातुके
पर इति किम् ?। कथयते। वृद्धौ कर्तव्यायां `अचः परस्मि'न्निति स्थानिवत्त्वं यथा
स्यात्। गोपायामिति। नन्विह आयप्रत्ययस्याऽदन्ततामाश्रित्य लोपकरणे लोपकरणे
फलाऽभावादुच्चारणार्थ एव तत्राकारोऽस्त्विति चेत्। अत्राहु– गोपायतं नः' इत्यत्र
गोपायशब्दस्य धातुत्वाद्धातोरन्त उदात्तो भवति।ततः शबकारेणैकाशेऽपि `एकादेश
उदात्तने'त्युदात्त एव,तकाराऽकारस्तु `तास्यनुदात्तेन्ङिददुपदेशात्' इत्यनुदात्तः।
ततश्च `उदात्तादनुदात्तस्ये'ति स्वरितो भवति। `स्वरितात्संहितायामनुदात्ताना'मिति
`न' इत्यस्य एकश्रुतिः। आयप्रत्ययस्य अनदन्तत्वेतु नेदमिष्टं सिध्यतीति।
स्तुतावेवेति। भट्टिस्तु व्यवहारेऽपि आयं प्रयुङ्क्तं–`न चोपलेभे वणिजां
पणाया'मिति। वणिजां व्यवहारमित्यर्थः। `अ प्रत्यया'
दित्यायप्रत्ययान्तादकारप्रत्यये टाप्। चक्षंस इति। इह `अनुनासिकस्य
क्विझलो'रित्युपधादीर्घो न कृतः, संज्ञापूर्वकविधेरनित्यत्वादिति स्थितस्य
गतिमुत्प्रेक्षयन्ति।

Satishji's सूत्र-सूचिः

444) अतो लोपः 6-4-48



वृत्तिः आर्धधातुकोपदेशे यददन्‍तं तस्‍यातो लोप आर्धधातुके । When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.


sutras/6-4-48.txt · Last modified: 2013/10/11 15:23 (external edit)
 
Except where otherwise noted, content on this wiki is licensed under the following license: GNU Free Documentation License 1.3
Recent changes RSS feed Donate Powered by PHP Valid XHTML 1.0 Valid CSS Driven by DokuWiki