<<6-4-118 —- 6-4-120>>

6-4-119 घ्वसोरेद्धावभ्यासलोपश् च

प्रथमावृत्तिः

घ्वसो: 6/2 एत् 1/1 हौ 7/1 अभ्यासलोपः 1/1 च (-)|

हिन्दी – [घ्वसो:]घुसंज्ञक अङ्ग को एवं अस् को [एत्] एकारादेश, [च] तथा [अभ्यासलोपः] अभ्यास का लोप होता है, हि क्ङित् परे रहते॥

काशिका

घुसंज्ञकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतः अभ्यासलोपश्च। देहि।
धेहि। अस्तेः श्नसोरल्लोपः 6-4-111। इत्यकारलोपः, एधि। शिदयम् लोपः, तेन
सर्वस्याभ्यासस्य भवति।

Ashtadhyayi (C.S.Vasu)

For the final vowel of the roots दा and घा (घु), and for the स् of अस्, is substituted ए before the Imperative ending हि; and thereby the reduplicated syllable of दा and घा is elided.

लघु

580 घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च. एत्त्वस्यासिद्धत्वाद्धेर्धिः.
श्नसोरित्यल्लोपः. तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्. एधि, स्तात्. स्तम्.
स्त. असानि. असाव. असाम. आसीत्. आस्ताम्. आसन्. स्यात्. स्याताम्. स्युः. भूयात्.
अभूत्. अभविष्यत्.. इण् गतौ.. 18.. एति. इतः..

बालमनोरमा

तत्त्वबोधिनी

261 घ्वसोरेद्धा। एत्वमलोन्त्यस्य, लोपस्तु शित्त्वात्सर्वस्येति भाष्यादौ
स्पष्टम्। देहि। धेहि। असिद्धत्वादाडिति। नन्वेवमाटोऽसिद्धत्वात्
`श्नसो'रित्यल्लोपो न भवेदिति तपरकरणं तत्र व्यर्थमिति चेत्, अत्राहुः-
- आभाच्छास्त्रस्याऽनित्यताज्ञापनाय तपरकरणम्। तेन `देभतु'रित्यादि सिद्धमिति।
स्यादेतत्– अत्र केचित्– अद्ग्रहणस्य निष्फलत्वे तपरकरणस्य ज्ञापनार्थत्वं न
सिध्येत्। न च `अत उ'दिति सूत्रस्थतपरकररणमेव ज्ञापनार्थमस्त्विति वाच्यम्,
अस्येत्युक्तौ गौरवादद्र्धमात्रालाघवाय तत्र तपरत्वमिति सुवचत्वात्।
तस्मादुक्तज्ञापनार्थमद्ग्रहणमावश्यकमित्याहुः।

Satishji's सूत्र-सूचिः

384) घ्वसोरेद्धावभ्यासलोपश्च 6-4-119



वृत्तिः घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। When the “हि”-प्रत्यय: follows, there is a substitution of एकार: in place of a धातु: that has the घु-सञ्ज्ञा and also in place of √अस् (असँ भुवि #२. ६०)। Simultaneously there is a लोप: of the अभ्यास: (if any.)\

Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending letter (अल्) of the धातु: is replaced by a एकार:। But the entire अभ्यासः - and not just the ending letter - takes लोपः। The reason for this is that in the सूत्रम् 6-4-119घ्वसोरेद्धावभ्यासलोपश्च ।, पाणिनिः says अभ्यासलोपः in spite of the अनुवृत्तिः of लोपः being available from the prior सूत्रम्। This repetition of the term लोपः is taken as an indication that the entire अभ्यासः should be elided.



उदाहरणम् – एधि (√अस्, अदादि-गणः, असँ भुवि, धातु-पाठः #२. ६०) लोँट्, कर्तरि-प्रयोगः, मध्यम-पुरुषः, एकवचनम्।



अस् + लोँट् 3-3-162 = अस् + ल् 1-3-2, 1-3-3

= अस् + सिप् 3-4-78, 1-4-101, 1-4-102, 1-4-105, सिप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113

= अस् + सि 1-3-3 = अस् + हि 3-4-87

= अस् + शप् + हि 3-1-68, शप् gets सार्वधातुक-सञ्ज्ञा by 3-4-113

= अस् + हि 2-4-72

= अ ए + हि 6-4-119, 1-1-52

= अ ए + धि 6-4-101 (Note: Due to 6-4-22, the एकारादेश: done by 6-4-119 is not seen by 6-4-101. It still sees a सकार: and therefore applies.)

= एधि 6-4-111 (Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित् (by 3-4-87), by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.)


sutras/6-4-119.txt · Last modified: 2013/10/11 15:23 (external edit)
 
Except where otherwise noted, content on this wiki is licensed under the following license: GNU Free Documentation License 1.3
Recent changes RSS feed Donate Powered by PHP Valid XHTML 1.0 Valid CSS Driven by DokuWiki