<<3-1-133 —- 3-1-135>>

3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः

प्रथमावृत्तिः

TBD.

काशिका

आदिशब्दः प्रयेकं सम्बध्यते। त्रिभ्यो गणेभ्यः त्रयः प्रत्ययाः यथासङ्ख्यं भवन्ति।
नन्द्याऽदिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्यो ऽच्। नन्दिग्रहपचादयश्च न
धातुपाठतः सन्निविष्टा गृह्यन्ते, किं तर्हि, नन्दन रमण इत्येवम् आदिषु
प्रातिपदिकगणेषु अपोद्धृत्य प्रकृतयो निर्दिश्यन्ते।
नन्दिवासिपदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्। नन्दनः। वासनः।
मदनः। दूषणः। साधनः। वर्धनः। शोभनः। रोचनः। सहितपिदमेः संज्ञायाम्। सहनः। तपनः।
दमनः। जल्पनः। रमणः। दर्पणः। सङ्क्रन्दनः। सङ्कर्षणः। जनार्दनः। यवनः। मधुसूदनः।
विभीषणः। लवणः। निपातनाण् णत्वम्। चित्तविनाशनः। कुलदमनः। शत्रुदमनः। इति
नन्द्यादिः। ग्रह। उत्सह। उद्दस। उद्भास। स्था। मन्त्र। सम्मर्द। ग्राही। उत्साही।
उद्दासो। उद्भासी। स्थायी। मन्त्री। सम्मर्दी। रक्षश्रुवसवपशां नौ। निरक्षी।
निश्रावी। निवासी। निवापी। निशायी। याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्।
अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी। अचामचित्तकर्तृकाणाम्।
प्रतिषिद्धानाम् इत्येव। अकारी। अहारी। अविनायी। अविशायी। विशयी। विशयी देशे।
विशयो, विषयी देशः। अभिभावी भूते। अभिभावी। अपराधी। उपरोधी। परिभवी। परिभावी। इति
ग्रह्यादिः। पच। वप। वद। चल। शल। तप। पत। नदट्। भषट्। वस। गरट्। प्लवट्। चरट्।
तरट्। चोरट्। ग्राहट्। जर। मर। क्षर। क्षम। सूदट्। देवट्। मोदट्। सेव। मेष। कोप।
मेधा। नर्त। व्रण। दर्श। दंश। दम्भ। जारभरा। श्वपच। पचादिराकृतिगणः। अज्विधिः
सर्वधातुभ्यः पठ्यन्ते च पचादयः। अण्बाधनार्थम् एव स्यात् सिध्यन्ति श्वपचादयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

789 नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्. नन्दयतीति नन्दनः.
जनमर्दयतीति जनार्दनः. लवणः. ग्राही. स्थायी. मन्त्री. पचादिराकृतिगणः..

बालमनोरमा

713 नन्दिग्रहि। नन्दि,ग्रहि, पच एषां द्वन्द्वः। नन्दिग्रहिपचा आदिर्येषामिति
विग्रहः। आदिशब्दस्य प्रत्येकमन्वयः फलति। ल्यु , ण्नि, अच्? - एषां
द्वन्द्वात्प्रथमा। यथासङ्ख्यमन्वयः। तदाह– न्द्यादेरित्यादि। नन्दीति
ण्यन्तग्रहणम्। तदाह– नन्दयतीत्यादि। ल्योरनादेशः, `णेरनिटी'ति णिलोपः। मधुं
सूदयतीति। मधुरसुरविशेषः, तं सूदयति = केचिदण्यन्ताः। सूत्रे `ग्रह उपादाने'
इत्यस्य ग्रहीति इका निर्देशः। सौत्रत्वात् `ग्रहिज्ये' ति संप्रसारणं न।
ग्राहीति। ग्रहधातोरदुपधाण्णिनिः। नकारादिकार उच्चारणार्थः। उपधावृद्धिः। विशयीति।
विपूर्वात् `शीङ् स्वप्ने' इति धातोर्णिनिः। गुणाऽयादेशौ। `अचोऽञ्णिती'ति
वृद्धिमाशङ्क्याऽऽह– वृद्ध्यभाव इति। विषयीति। `षिञ् बन्धने'
अस्मात्कृतषत्वाण्णिनिः। गुणाऽयादेशौ। नन्विह कतं न वृद्धिः, कथं च षत्वं,
पदादित्वादित्यत आह– षत्वमपीति। निपातनाद्वृद्ध्यभावः षत्वं चेत्यर्थः। परिभावी
परिभवीत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्क्य आह– पाक्षिक इति। ग्रह्रादयो वृत्तौ
पठिताः। पचादिराकृतिगण इति। पच वप इत्यादिकतिपयधातून् पठित्वा आकृतिगण इति गणपाठे
वचनादिति भावः। गणपाठे आकृतिगणत्ववचनाऽभावेऽप्याह– शिवशमिति। सूत्रे करशब्दस्य
पचादिगणेऽपठितस्य कृञोऽच्प्रत्ययान्तस्य, `कर्मणि घट' इति सूत्रे घटेरचि घटशब्दस्य
च प्रयोगदर्शनादित्यर्थः। अच्प्रत्यय इति। यङन्तादच्प्रत्यये परे `यङोऽचि चे'ति
यहो लुग्विधीयते। नहि पचादिगणे यङन्तं पठितमस्ति। अतोऽपि पचादेराकृतिगणत्वं
विज्ञायते इत्यर्थः। पचादेराकृतिगणत्वे नदट् चोरडित्यादीनं तत्र पाठो व्यर्थ इत्यत
आह— केषांचिदिति। टकारानुन्धासञ्जानार्थ इत्यर्थः। नन्वेमपि वद चल
इत्यादीनामनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह– केषांचित्प्रपञ्चार्थ इत।
बाधकेति। `जारभर' `\उfffदापचे'त्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थं
भरपचादीनां पाठ इति भाष्यम्। देवः सेव इत्यादौ `इगुपधज्ञाप्रीकिरः कः' इति विशिष्य
विहितस्य कस्य बाधनार्थं च। तदेतदुपपादयति– नदडित्यादि। ननु पचादिगणे
\उfffदापचशब्दस्य बाधकबाधनार्थत्वे \उfffदापाक इति कथमित्यत आह– न्यङ्क्वादिषु
पाठाच्छ्वपाकोऽपीति। कदाचिदण्प्रत्ययः,कुत्वं चेत्यर्थः। चेक्रियः, मरीमृज इत्यादौ
प्रक्रियां दर्शयति– यङोऽचि चेति। क्रीञादिधातोरचि यङो लुगित्यर्थ-। द्वित्वादौ
चेक्री अ इत्यादिस्थितौ आह– न धातुलोप इति। चेक्रिय इति। गुणाऽभावे
संयोगपर्वत्वान्न यण्। नेन्य इति। `एरनेकाचः' इति यण्। लोलुव इति। उवङ्। यण्तु न,
`ओः सुपी'त्युवक्तेः। मरीमृज इति। अत्र `न धातुलोपे' इति निषेधान्न मृजेर्वृद्धिः।
चरिचलीति। एषामच्प्रत्यये परे द्वित्वम्, अभ्यासस्य आगागमश्चेत्यर्थः। ननु `चराचर'
इत्यत्राऽभ्यासे रेफादाकारस्य ह्यस्वः स्यात्, हलादिशेषेण तत्र रेफस्यापि
निवृत्तिः स्यादित्यत आह– आगागमस्येति। ह्यस्वत्वे सत्यागागमे दीर्घोच्चारणं
व्यर्थम्, आगागमस्यैव विधातुं शक्यत्वात्। तथा हलादिशेषेण रेफस्य निवृत्तौ
ह्यस्वत्वेऽपि सवर्णदीर्घेण `चाचर' इति सिद्धेर्धीर्घोच्चारणं हलादिशेषाऽभावं
गमयतीत्यर्थः। हन्तेरितति। वार्तिकमिदम्। हनधातोरचि घत्वं द्वित्वमापक् चेत्यर्थः।
ननूत्तरखण्डे `अभ्यासाच्चे'ति कुत्वसिद्धिः किमर्थमिह घत्वविधानमित्यत आह-
- घत्वमभ्यासस्येति। `इह विधीयतेट इति शेषः। पाटेरिति। वार्तिकमिदम्। पाटेर्णौ
पाटि इत्यस्मादचि णेर्लुक्, द्वित्वम्, अभ्यासस्य ऊगागमः। अभ्यासस्य आकारस्य
ह्यस्वे तसय् दीर्घश्चेत्यर्थः। वृद्धिनिवृत्तये णेर्लुग्विधिः। आगमे
दीर्घोच्चारणाद्धलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति
रूपस्य उगागमेऽपि सिद्धेः।

तत्त्वबोधिनी

594 नन्दिग्रहि। द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं संबध्यते। तदाह-
- नन्द्यादेर्ल्युरित्यादि। मधुसूदन इति। मधुं दैत्यं सूदयतीति विग्रहः। षूद
क्षरणे। इह अर्दिसूदिभ्यां कर्मण्यणि प्राप्ते नन्द्यादिपाठाल्ल्युः। विभाषण इति।
`भियो हेतुभये षुक्'। ग्राहीति। णिनेर्णिदत्त्वादुपधावृद्धिः। स्थायीति। आतो युक्।
मन्त्रीति। `मत्री'ति चुरादाविदित्पाठान्नुम्, `णेरनिटी'ति णिलोपः। विषयीति। षिञ्
बन्धने। `धात्वादे'रिति षस्य सत्वे `आदेशप्रत्यययो' रिति प्राप्तस्य षत्वस्य
`सात्पदाद्योरिति निषेधादाह–इह षत्वमपीति। `निपातना'दित्यनुषज्यते। `परिनिविभ्यः'
इति सूत्रे `सितसये'ति क्तान्ताऽजन्तसिनोतेग्र्रहणाण्णिन्यन्तसिनोतेर्निपातनं विना
षत्वं दुर्लभमिति भावः। जारभरेत्यादि। जारं बिभर्ति, \उfffदाआनं पचतीति विग्रहः।
\उfffदापाकोऽपीति। कर्मण्यणपि पक्षे भवतीति भावः। चेक्रिय इति। संयोगपूर्वत्वात्
`एरनेकाचः' इति न यण्। लोलुव इति। इह सुबभवात् `ओः सुपी'ति यणनेति `अचि श्नुधातु'
इत्युवङ्। मरीमृज इति। `रीगृदुपधस्ये चे'ति रीगागमः।
द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम्। हलादिः शेषश्च नेति। सति तु हलादिःशेषे
आगमस्य आदेशस्य वा विशेषो नास्तीत्या-चाऽभ्यासस्येत्येव ब्राऊयादिति भावः।
पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य। पाटेर्णिलुगिति। `णेरनिटी'ति लोपे हि
प्रत्ययलक्षणन्यायेन `पाटूपट' इत्यत्रोपधावृद्धिः स्यादिति भावः। इहापि
पूर्ववद्ध्रस्वहलादिः शेषयोरभावः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात् । The affix “ल्यु” may be used after a verbal root belonging to the group headed by “नन्दि”; the affix “णिनिँ” may be used after a verbal root belonging to the group headed by “ग्रहि”; and the affix “अच्” may be used after a verbal root belonging to the group headed by “पच्”।

उदाहरणम् – नन्दयतीति नन्दनः (पुत्र:)/नन्दनम् (इन्द्रस्योपवनम्) derived from a causative form of √नन्द् (टुनदिँ समृद्धौ १. ७०).

The “टु” at the beginning of “टुनदिँ” gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्। Both the “टु” and the “इ” take लोप: by 1-3-9 तस्य लोपः and only “नद्” remains.

= न नुँम् द् 7-1-58 , 1-1-47

= नन्द् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

नन्द् + णिच् 3-1-26

= नन्द् + इ 1-3-3 , 1-3-7 , 1-3-9

= नन्दि । “नन्दि” gets धातु-सञ्ज्ञा by 3-1-32

नन्दि + ल्यु 3-1-134

= नन्दि + यु 1-3-8 , 1-3-9

= नन्दि + अन 7-1-1 , 1-1-55

= नन्दन 6-4-51

“नन्दन” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् - लुनातीति लवण: (दैत्यविशेष:)/लवणम् (रसविशेष:) derived from √लू (लूञ् छेदने ९.१६).

लू + ल्यु 3-1-134

= लू + यु 1-3-8 , 1-3-3

= लू + अन 7-1-1 , 1-1-55

= लो + अन 7-3-84

= लवन 6-1-78

= लवण – गणपाठे निपातनात् णत्वम्।

“लवण” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् - गृह्णातीति ग्राही derived from √ग्रह् (ग्रहँ उपादाने ९.७१ ).

ग्रह् + णिनिँ 3-1-134

= ग्रह् + इन् 1-3-2 , 1-3-7 , 1-3-9

= ग्राहिन् 7-2-116

“ग्राहिन्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

ग्राहिन् + सुँ 4-1-2

= ग्राहिन् + स् 1-3-2 , 1-3-9 Here 6-4-12 stops 6-4-8 from applying.

= ग्राहीन् + स् 6-4-13

= ग्राहीन् 6-1-68

= ग्राही 8-2-7

उदाहरणम् - मन्त्रयत इति मन्त्री derived from √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९)

The इकारः at the end of “मत्रिँ” gets इत्-सञ्ज्ञा by 1-3-2 . Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the नुँम्-आगमः।

मत्रिँ = मत्र् 1-3-2 , 1-3-9

= म नुँम् त्र् 7-1-58 , 1-1-47

= म न् त्र् 1-3-2 , 1-3-3 , 1-3-9 = मन्त्र्

मन्त्र् + णिनिँ 3-1-134

= मन्त्र् + इन् 1-3-2 , 1-3-7 , 1-3-9

= मन्त्रिन्

“मन्त्रिन्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् - पचतीति पचः derived form √पच् (डुपचँष् पाके १. ११५१).

पच् + अच् 3-1-134

= पच् + अ 1-3-3 , 1-3-9

= पच

“पच” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

उदाहरणम् - चलतीति चलः derived from √चल् (चलँ कम्पने १. ९६६).

चल् + अच् 3-1-134

= चल् + अ 1-3-3 , 1-3-9

= चल

“चल” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46

वार्तिकम् - अज्विधिः सर्वधातुभ्यः।

The affix “अच्” may be used after any verbal root (to denote the agent/doer of the action.)

उदाहरणम् – लोलुवः derived from the verbal root √लू (लूञ् छेदने ९. १६).

लू + यङ् 3-1-22 . Note: “लू + यङ्” gets the धातु-सञ्ज्ञा by 3-1-32

= लू + यङ् + अच् – वार्तिकम् (under 3-1-134 ) – अज्विधिः सर्वधातुभ्यः।

Example continued under 2-4-74

sutras/3-1-134.txt · Last modified: 2013/10/11 15:23 (external edit)
 
Except where otherwise noted, content on this wiki is licensed under the following license: GNU Free Documentation License 1.3
Recent changes RSS feed Donate Powered by PHP Valid XHTML 1.0 Valid CSS Driven by DokuWiki