Home » 2014 » January » 06

Daily Archives: January 6, 2014

तटम् nNs

Today we will look at the form तटम् nNs from the commentary on वैराग्यशतकम् verse 98.

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥

टीका –
गङ्गेति । गङ्गायाः सुरनद्याः, तीरे कूले । ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ इत्यमरः । तीरग्रहणं तद्गतशीतत्वपावित्र्यादिसिद्ध्यर्थम् । हिमगिरेः शीतनगस्य शिलायाः पाषाणस्योपरि बद्धं पद्मासनं येन तस्य । किंच ब्रह्मणो ध्यानमुपासनम्, तस्याभ्यसनमभ्यासः, तस्य विधिर्विधानं तेन । ‘विधिर्विधाने दैवेऽपि’ इत्यमरः । योगनिद्रां गतस्य प्राप्तस्य योगिनो मम तैः सुदिवसैः पुण्यदिनैः, भाव्यं किम्यत्र ते जरठहरिणा वृद्धकुरङ्गाः, निर्विशङ्का निर्भीकाः सन्तः, स्वाङ्गं स्वशरीरम्, मदीयेऽङ्गे शरीरे, कण्डूयन्ते । तैर्भाव्यमित्यभिप्रायः । एवं च ग्रामनिवासं त्यक्त्वा गङ्गातीरे हिमवत्पर्वतपाषाणोपरि पद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधानेन योगनिद्रां गतः सन्नहं निर्विशङ्कैः जरठहरिणैः साकं यदा स्थास्ये तदा मे सुदिवसा जायन्त इत्यभिप्रायः । मन्दाक्रान्तावृत्तम् ॥

Translation – Can those blessed days be (in store) for me, when the fearless old stags rub their bodies against mine while I, having fixed myself in the Padmāsana posture on a slab in the Himalayas on the bank of the Ganges, attain yogic sleep by constantly meditating on the Supreme Reality?

Note: This verse has also been previously posted in the following post – कण्डूयन्ते-3ap-लँट्

The form तटम् is derived from the पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग-प्रातिपदिकम् ‘तट’। The विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्।

(1) तट + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.

(2) तट + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।

(3) तटम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (used in step 1) the सिद्धान्तकौमुदी says – अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम्। अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य। Please explain.

2. In the quotation – ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु‘ – from the अमर-कोष: given in the commentary, what does त्रिषु mean?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘अभ्यसन’? Which one is used to form the प्रातिपदिकम् ‘अभ्यास’? Which one is used to form the प्रातिपदिकम् ‘विधि’?

4. In the form गतस्य (used in the verse) the affix ‘क्त’ has been used –
(i) कर्तरि
(ii) कर्मणि
(iii) भावे
(iv) None of the above

5. How would you say this in Sanskrit?
“Śrī Kṛṣṇa sported with the gopīs on the bank of the Yamunā.”

6. How would you say this in Sanskrit?
“There are many beautiful trees on the bank of this river.”

Easy questions:

1. Which सूत्रम् prescribes the augment याट् in the form गङ्गायाः used in the commentary?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?

Recent Posts

January 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics