Home » Example for the day » विरम 2As-लोँट्

विरम 2As-लोँट्

Today we will look at the form विरम 2As-लोँट् from श्रीमद्भागवतम् 4.29.55.

स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तश्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥ ४-२९-५५ ॥
राजोवाच
श्रुतमन्वीक्षितं ब्रह्मन्भगवान्यदभाषत । नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ४-२९-५६ ॥

श्रीधर-स्वामि-टीका
उपदेशसारमाह – इति । विचक्ष्य विचार्य । अन्तर्हृदि चित्तं कर्णयोर्धुनीं नदीमिव बहिर्वृत्तिं चित्ते नियच्छ । एतच्च सर्वेन्द्रियोपलक्षणार्थम् । अङ्गनाश्रमं गृहाश्रमं च जहि । कीदृशम् । असत्तमानामतिकामुकानां यानि यूथानि तेषां गाथा वार्ता यस्मिन् । हंसानां जीवानां शरणमीश्वरम् । एवं क्रमेण सर्वतो विरम ॥ ५५ ॥
अर्थान्तरं प्रष्टुं पूर्वोक्तमर्थमनुवदति । श्रुतमन्वीक्षितं विचारितं च । ब्रह्मन् हे नारद, एतत्त्वदुक्तमात्मतत्त्वमुपाध्याया ये मम कर्मोपदेष्टार आचार्यास्ते न जानन्ति ॥५६ ॥

Gita Press translation – Thus pondering the career of the deer, restrain your mind within the four walls of your heart and (the outward flow of) the stream of your ear in the mind. Bid adieu to the life of a householder, where you (mostly) hear stories of unrighteous (libidinous) people; (try to) please the Lord (the shelter of all living beings) and gradually withdraw from everything else (55). King Prācīnabarhi said : I have heard and pondered, O holy sage, on what you have said. (Surely) my preceptors (who instructed me in the rituals) are not aware of this; (for) had they known it, wherefore should they have failed to teach the same to me? (56)

विरम is derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).

The ending उकारः/अकार: of √रम् gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वर:। Thus √रम् should take आत्मनेपद-प्रत्ययाः by 1-3-12 अनुदात्तङित आत्मनेपदम्। But, as per 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः “वि”/”आङ्”/”परि”, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।)

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

(1) रम् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) रम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रम् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) रम् + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) रम् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) रम । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + रम = विरम ।

Questions:

1. Consider the form उपरमेत् used in the following verse of the गीता –
शनैः शनैरुपरमेद्‌ बुद्‌ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्‌ ॥ 6-25 ॥
In 1-3 (the third quarter of the first chapter) of the अष्टाध्यायी, can you find a सूत्रम् (which we have not discussed in the class) which justifies the use of परस्मैपदम् in उपरमेत्। Hint: This is a intransitive usage (अकर्मक-प्रयोगः)।

2. Commenting on the सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः the काशिका says एतेभ्य इति किम्? अभिरमते। Please explain.

3. Which सूत्रम् is used for the छकारादेशः in the form नियच्छ?

4. In which word in the verses has the सूत्रम् 6-4-113 ई हल्यघोः been used?

5. Correct the following sentence:
आरामेऽत्रारमामहे ।

6. How would you say this in Sanskrit?
“Desist from sin.”

Easy Questions:

1. Can you spot an augment अट् in the verses?

2. Why doesn’t the ending नकारः of (हे) ब्रह्मन् take लोपः by 8-2-7 नलोपः प्रातिपदिकान्तस्य?


1 Comment

  1. 1. Consider the form उपरमेत् used in the following verse of the गीता –
    शनैः शनैरुपरमेद्‌ बुद्‌ध्या धृतिगृहीतया ।
    आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्‌ ॥ 6-25 ॥
    In 1-3 (the third quarter of the first chapter) of the अष्टाध्यायी, can you find a सूत्रम् (which we have not discussed in the class) which justifies the use of परस्मैपदम् in उपरमेत्। Hint: This is a intransitive usage (अकर्मक-प्रयोगः)।
    Answer: The सूत्रम् is 1-3-85 विभाषाऽकर्मकात् – When preceded by the उपसर्गः “उप”, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), when used intransitively, optionally takes a परस्मैपदम् affix.

    2. Commenting on the सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः the काशिका says एतेभ्य इति किम्? अभिरमते। Please explain.
    Answer: As per 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः “वि”/”आङ्”/”परि”, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।)
    परस्मैपदम् is mandated only with the उपसर्गः “वि”, “आङ्” or “परि”। In conjunction with any other उपसर्गः, आत्मनेपदम् affixes apply as per 1-3-12 अनुदात्तङित आत्मनेपदम्। Therefore, with the उपसर्गः “अभि” only आत्मनेपदम् affix is used. Thus we have the form अभिरमते and not अभिरमति।

    3. Which सूत्रम् is used for the छकारादेशः in the form नियच्छ?
    Answer: The सूत्रम् 7-3-77 इषुगमियमां छः is used for the छकारादेशः in the form नियच्छ derived from √यम् (यमँ उपरमे १. ११३९).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    यम् + लोँट् । By 3-3-162 लोट् च।
    = यम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = यम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = यम् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = यम् + शप् + हि । By 3-1-68 कर्तरि शप्।
    = यम् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = यछ् + अ + हि । By 7-3-77 इषुगमियमां छः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement.
    = यतुँक् छ् + अ हि । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = यत् छ हि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = यत् छ । By 6-4-105 अतो हेः।
    = यच्छ । By 8-4-40 स्तोः श्चुना श्चुः।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    नि + यच्छ = नियच्छ ।

    Note: The form यच्छ can also be derived from the verbal root √दा (दाण् दाने १. १०७९) using the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः। But from the meaning in this verse we can see that here यच्छ is derived from “यमँ उपरमे” and not from “दाण् दाने”।

    4. In which word in the verses has the सूत्रम् 6-4-113 ई हल्यघोः been used?
    Answer: The सूत्रम् 6-4-113 ई हल्यघोः has been used in the form प्रीणीहि derived from √प्री (प्रीञ् तर्पणे कान्तौ च ९. २)

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्।
    प्री + लोँट् । By 3-3-162 लोट् च।
    = प्री + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्री + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = प्री + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्री + हि । By 3-4-87 सेर्ह्यपिच्च, 1-1-55 अनेकाल्शित्सर्वस्य।
    = प्री + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना। Note: Since the प्रत्यय: “श्ना” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। Hence 1-1-5 क्क्ङिति च prevents the गुणादेश: for the ending ईकार: of the अङ्गम् “प्री” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = प्री + ना + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = प्री + नी + हि । By 6-4-113 ई हल्यधोः – When followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा। Note: Since the प्रत्यय: “हि” is a सार्वधातुक-प्रत्यय: which is अपित् (by 3-4-87 सेर्ह्यपिच्च), it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। This allows 6-4-113 to apply.
    = प्रीणीहि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    5. Correct the following sentence:
    आरामेऽत्रारमामहे ।
    Answer: आरामेऽत्रारमामः। ref: As per 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः “वि”/“आङ्”/”परि”, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।) Hence the correct form is आरमामः।

    6. How would you say this in Sanskrit?
    “Desist from sin.”
    Answer: पापात् विरम = पापाद् विरम ।

    Easy Questions:

    1. Can you spot an augment अट् in the verses?
    Answer: An augment अट् can be seen in the form अभाषत derived from √भाष् (भाषँ व्यक्तायां वाचि १. ६९६).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भाष् + लँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भाष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भाष् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले।
    = भाष् + शप् + त । By 3-1-68 कर्तरि शप्।
    = भाष् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अट् भाषत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः at the beginning of the अङ्गम् ।
    = अभाषत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. Why doesn’t the ending नकारः of (हे) ब्रह्मन् take लोपः by 8-2-7 नलोपः प्रातिपदिकान्तस्य?
    Answer: The नकारलोपः which would have been done by 8-2-7 नलोपः प्रातिपदिकान्तस्य is stopped by 8-2-8 न ङिसम्बुद्ध्योः – नकारः does not take लोपः, when “ङि” or the सम्बुद्धिः affix follows. Steps are as follows:
    (हे) ब्रह्मन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा………….। Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः।
    = (हे) ब्रह्मन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) ब्रह्मन् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now 8-2-8 न ङिसम्बुद्ध्योः stops 8-2-7 नलोपः प्रातिपदिकान्तस्य।

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics